|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.141. अध्यायः 141
Mahabharata - Drona Parva - Chapter Topics
सात्यकेरर्जुनदर्शनं भूरिश्रवसा समागमश्च॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-141-0x(4619)(50941)
तमुद्यतं महाबाहुं दुःशासनरथं प्रति।
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम्॥ 7-141-1(50942)
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः।
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन्॥ 7-141-2(50943)
अथैनं रथवंशेन सर्वतः सन्निवार्य ते।
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः॥ 7-141-3(50944)
अजयद्राजपुत्रांस्तान्भ्राजमानान्महारणे।
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः॥ 7-141-4(50945)
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्।
असिशक्तिगदापूर्णमप्लुवं सागरं यथा॥ 7-141-5(50946)
`अथैनमनुवृत्तास्तु त्रिगर्ताः सहिताः पुनः।
तीव्रेण रथवंशेन महता पर्यवारयन्।
विकर्षन्तोऽतिमात्राणि चापानि भरतर्षभ'॥ 7-141-6(50947)
तत्राद्भुतमपश्याम शैनेयचरितं रणे।
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात्॥ 7-141-7(50948)
उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा।
पुनर्मध्यगतो वीर आहवे युद्धदुर्मदः॥ 7-141-8(50949)
एकः पर्यचरन्रङ्गे बहुधा स महाबलः।
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा॥ 7-141-9(50950)
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः।
त्रिगर्ताः सन्न्यवर्तन्त सन्तप्ताः स्वजनं प्रति॥ 7-141-10(50951)
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन्।
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः॥ 7-141-11(50952)
तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः।
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः॥ 7-141-12(50953)
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्।
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत्॥ 7-141-13(50954)
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्।
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्॥ 7-141-14(50955)
तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्।
असावायाति शैनेयस्तव पार्थ पदानुगः॥ 7-141-15(50956)
एष शिष्यः सखा चैव तव सत्यपराक्रमः।
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः॥ 7-141-16(50957)
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्।
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः॥ 7-141-17(50958)
एष द्रोणं तथा भोजं कृतवर्माणमेव च।
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः॥ 7-141-18(50959)
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्।
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः॥ 7-141-19(50960)
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः।
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः॥ 7-141-20(50961)
बहूनेकरथेनाजौ योधयित्वा महारथान्।
आचार्यप्रमुखान्पार्थ प्रयात्येष स सात्यकिः॥ 7-141-21(50962)
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्।
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः॥ 7-141-22(50963)
प्रियः शिष्यश्च ते पार्थ त्वया तुल्यपराक्रमः।
विद्राव्यं महतीं सेनामेष ह्यायाति सात्यकिः॥ 7-141-23(50964)
यस्य नास्ति समो योधः कौरवेषु कथञ्चन।
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः॥ 7-141-24(50965)
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव।
निहत्य बहुलाः सेनाः पार्थैषोऽब्येति सात्यकिः॥ 7-141-25(50966)
एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः।
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः॥ 7-141-26(50967)
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे।
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः॥ 7-141-27(50968)
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्।
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः॥ 7-141-28(50969)
सञ्जय उवाच। 7-141-29x(4620)
ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्।
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः॥ 7-141-29(50970)
न हि जानामि वृत्तान्तं धर्मराजस्य केशव।
सात्वतेन विहीनः स यदि जीवति वा न वा॥ 7-141-30(50971)
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः।
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः॥ 7-141-31(50972)
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः।
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे॥ 7-141-32(50973)
सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः।
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः॥ 7-141-33(50974)
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः।
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम्॥ 7-141-34(50975)
परिश्रान्ता हयाश्चास्य हययन्ता च माधव।
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव॥ 7-141-35(50976)
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे।
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः।
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः॥ 7-141-36(50977)
अपि कौरवमुख्येन कृतास्त्रेण महात्मना।
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्॥ 7-141-37(50978)
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव।
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम्॥ 7-141-38(50979)
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्।
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः॥ ॥ 7-141-39(50980)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकचत्वारिंशदधिकशततमोऽध्यायः॥ 141 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-141-1 तुरणीयेषु कृत्येषु॥ 5-141-141 एकचत्वारिंशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|